|
|
 |
 |
|
|
११ स्त्रीपर्व.jpg)
॥ श्रीः ॥
11.17. अध्यायः 017
Mahabharata - Strii Parva - Chapter Topics
गान्धार्या दुर्योधनमालिङ्ग्य परिदेवनम्॥ 1 ॥

Mahabharata - Strii Parva - Chapter Text
वैशम्पायन उवाच। 11-17-0x(5352)(65283)
दुर्योधनं हतं दृष्ट्वा गान्धारी शोककर्शिता।
सहसा न्यपतद्भूमौ छिन्नेव कदली वने॥ 11-17-1(65284)
सा तु लब्ध्वा पुनः संज्ञां विक्रुश्य च विलप्य च।
दुर्योधनमभिप्रेक्ष्य शयानं रुधिरोक्षितम्॥ 11-17-2(65285)
परिष्वज्याथ गान्धारी कृपणं पर्यदेवयत्।
हाहापुत्रेति शोकार्ता विललापाकुलेन्द्रिया॥ 11-17-3(65286)
सुगूढजत्रु विपुलं हारनिष्कविभूषितम्।
वारिणा नेत्रजेनोरः सिञ्चन्ती शोकतापिता॥ 11-17-4(65287)
समीपस्थं हृषीकेशमिद वचनमब्रवीत्।
उपस्थितेऽस्मिन्सङ्ग्रामे ज्ञातीनां संक्षये विभो॥ 11-17-5(65288)
मामयं प्राह वार्ष्णेय प्राञ्चलिर्नृपसत्तमः।
अस्मिञ्ज्ञातिसमुद्धर्षे जयमम्बा ब्रवीतु मे॥ 11-17-6(65289)
इत्युक्ते जानती सर्वमहं स्वव्यसनागमम्।
अब्रुवं पुरुषव्याघ्र यतो धर्मस्ततो जयः॥ 11-17-7(65290)
तथा तु युव्यमानस्त्वं सम्प्रगृह्य सुपुत्रक।
ध्रुवं शखजिताँल्लोकान्प्राप्स्यस्यमरवत्प्रभो॥ 11-17-8(65291)
इत्येवxxx पूर्वं नैवं शोचामि वै प्रभो।
धृतराष्ट्रं तु शोचामि कृपणं हतबान्धवम्॥ 11-17-9(65292)
अमर्वणं युधां श्रेष्ठं कृतास्त्रं युद्धदुर्मदम्।
शयानं वीरशयने पश्य माधव मे सुतम्॥ 11-17-10(65293)
बोऽयं मूर्धावसिक्तानाये याति परन्तपः।
सोऽवं पांसुषु शेतेऽद्य पञ्च कालस्य पर्ययम्॥ 11-17-11(65294)
दुवं दुर्योधनो वीरो गतिं न सुलभां गतः।
तथा ह्यभिxxxx शेते शयने वीरसेविते॥ 11-17-12(65295)
यं पुरा पर्युपासीना समयन्ति वरस्त्रियः।
सं वीरशयने सुप्तं रमयन्त्यशिवाः शिवाः॥ 11-17-13(65296)
यं पुरा पर्युपासीना रमयन्ति महीक्षितः।
महीतलस्यं निहतं गृध्रास्तं पर्युपासते॥ 11-17-14(65297)
यं पुरा व्यजनैरम्यैरुपवीजन्ति योषितः।
तमद्य पक्षव्यजनै रुपवीजन्ति पक्षिणः॥ 11-17-15(65298)
एष शेते महाबाहुर्बलवान्सत्यविक्रमः।
सिंहेनेव द्विपः सङ्ख्ये भीमसेनेन पातितः॥ 11-17-16(65299)
पश्य दुर्योधनं कृष्ण शयानं रुधिरोक्षितम्।
निहतं भीमसेनेन गदां सम्मृज्य भारत॥ 11-17-17(65300)
अक्षौहिणीर्महाबाहुर्दश चैकां च केशव।
आनयद्यः पुरा सङ्ख्ये सोऽनयान्निधनं गतः॥ 11-17-18(65301)
एष दुर्योधनः शेते महेष्वासो महाबलः।
शार्दूल इव सिंहेन भीमसेनेन पातितः॥ 11-17-19(65302)
विदुरं ह्यवमत्यैष पितरं चैव मन्दभाक्।
बालो वृद्धावमानेन मन्दो मृत्युवशं गतः॥ 11-17-20(65303)
निःसपत्ना मही यस्य त्रयोदशसमाः स्थिता।
स शेते निहतो भूमौ पुत्रो मे पृथिवीपतिः॥ 11-17-21(65304)
अपश्यं कृष्ण पृथिवीं धार्तराष्ट्रानुशासिताम्।
पूर्णां हस्तिगवाश्वैश्च वार्ष्णेय न तु तच्चिरम्॥ 11-17-22(65305)
तामेवाद्य महाबाहो पश्याम्यन्यानुशासिताम्।
हीनां हस्तिगवाश्वेन किन्नु जीवामि माधव॥ 11-17-23(65306)
इदं कष्टतरं पश्य पुत्रस्यापि वधान्मम।
या इमाः पर्युपासन्ते हताञ्शूरान्रणे स्त्रियः॥ 11-17-24(65307)
प्रकीर्णकेशां सुश्रोणीं दुर्योधनभूजाङ्कगाम्।
रुक्मवेदिनिभां पश्य कृष्ण लक्ष्मणमातरम्॥ 11-17-25(65308)
नूनमेषा पुरा बाला जीवमाने महाभुजे।
भुजावाश्रित्य रमते सुभुजस्य मनस्विनी॥ 11-17-26(65309)
कथं तु शतधा नेदं हृदयं मम दीर्यते।
पश्यन्त्या निहतं पुत्रं पौत्रेण सहितं रणे॥ 11-17-27(65310)
पुत्रं रुधिरसंसिक्तमुपजिघ्रत्यनिन्दिता।
दुर्योधनं तु वामोरूः पाणिना परिमार्जती॥ 11-17-28(65311)
किन्नु शोचति भर्तारं हतपुत्रं मनस्विनी।
तथा ह्यवस्थिता भाति पुत्रं चाप्यभिवीक्ष्य सा॥ 11-17-29(65312)
स्वशिरः पञ्चशाखाभ्यामभिहत्यायतेक्षणा।
पतत्युरसि वीरस्य कुरुराजस्य माधव॥ 11-17-30(65313)
पुण्डरीकनिभा भाति पुण्डरीकान्तरप्रभा।
मुखं प्रमृज्य पुत्रस्य भर्तुश्चैव तपस्विनी॥ 11-17-31(65314)
यदि सत्यागमाः सन्ति यदि वै श्रुतयस्तथा।
ध्रुवं लोकानवाप्तोऽयं नृपो बाहुबलार्जितान्॥ ॥ 11-17-32(65315)
इति श्रीमन्महाभारते स्त्रीपर्वणि स्त्रीविलापपर्वणि सप्तदशोऽध्यायः॥ 17 ॥
Mahabharata - Strii Parva - Chapter Footnotes
11-17-27 पुत्रेण सहितं रणे इति झ.पाठः॥ 11-17-30 पञ्चशाखाभ्यां पञ्चाङ्गुलिभ्यां पाणिभ्याम्॥ 11-17-17 सप्तदशोऽध्यायः॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|